No. 28 – TUOL KOK PRAH INSCRIPTIONS

The stone containing this inscription was found in a paddy field to the east of Tuol Kok Prah in the district of Kompong Rusie in the province of Prei Veng.

The inscriptions were written partly in Sanskrit and partly in Khmer. The Sanskrit portion contains 7 shlokas and 5 lines in prose. It records the installation of an image of god Amratakeshvara in 579 Saka by Jnanachandra, minister of King Jayavarman I, and donation of lands, slaves, etc. The Khmer portion is damaged and contained a list of donations.

स्वस्ति जयत्युमार्धकायोऽपि योगिनां प्रभवो ++।
पराबभूव यं प्राप्य मन्मथो लोकमन्मथः॥१॥

यः पाकशासन इव क्षितीन्द्रैर्धृतशासनः।
राजा श्रीजयवर्मेति विजितारातिमण्डलः॥२॥

तस्यामात्योऽनवद्यात्मा कुलीनो विदुषां मतः।
विख्यातो ज्ञानचन्द्राख्यो गुणज्ञो गुणिनां गुणी॥३॥

तेनेह स्थापितो भक्त्या श्रीमानाम्रातकेश्वरः।
यथा मम शिवे भक्तिःप्रतिजन्म भवेदिति॥४॥

इहापि भगवान् पूर्वः श्रीमान् रुद्रमहालयः।
उभयोर्देवकुलयोरेकत्वमुपभोगतः॥५॥

सिंहोदये वृषार्द्धेन्दौ कृष्णद्वादशके शुचेः।
श्रीमानाम्रातकेशोऽयं स्थितो नवमुनीषुभिः॥६॥

++स्मिन् श्रद्धया दत्तं क्षेत्रदासादिकन्धनम्।
यो हरेत् स नरो यायाद् नरकानेकविंशतिम्॥७॥

…निध्यस्य श्रीव्योमेश्वरस्य क्षेत्रद्वयस्मिन्
…आम्रातकेश्वरे दत्तमस्य क्षेत्रद्वयस्य निष्क्रयः अर्च्चन
…स्मिन् श्रीव्योमेश्वरे दत्तञ्च तदपि श्रीमता श्रीजयवर्मन
…द्वम यदपि ज्ञानचन्द्रेणोपार्ज्जितं तत्सर्वं श्रीमदाम्रातकेश्वरे
…श्वर…यम्

Leave a Reply

Your email address will not be published. Required fields are marked *