No. 75 – THE BAYANG STELE INSCRIPTION OF YASHOVARMAN

The inscription contains 18 shlokas. After an invocation to Shiva(v.1) and the eulogy of king Yashovarman(2-6), it refers to sage Amarabhava, who received various honours from Yashovarman(v7,8), was a great scholar(v.9)  and was appointed chief of northern Indrashrama by king Indravarman (v.10).  While digging a tank he found a golden disc belonging to his Guru(v.11,12). He made of it an image of Shiva, of the type called Utsavamurthy, for taking out in procession(v.13,14). He was appointed chief of the monastery(v.15) and erected a Shala(house) of the god in the southern valley(v.18).

श्रियं वो धूर्जटिः पातु यस्याङ्घ्रेः भारपीडया।
बधिरीकृतसर्वाशान् दशास्यो व्यकृत स्वरान्॥१॥

कम्बुजाधिपती राज्ञां मूर्द्धस्वाहितशासनः।
श्रीन्द्रवर्मेति राजा यो दिक्षु ख्यातपराक्रमः॥२॥

सेवाराजसमाहारमौिरत्नांशुनिर्गमैः।
रत्नसिंहासनं यस्य द्विगुणीकृतशोभनम्॥३॥

एकैकाष्टशतावातराज्यश्रीः श्रीयशोनिधेः।
श्रीयशोवर्मनामासीत्तस्य पुत्रः प्रतापवान्॥४॥

धर्मावियोगिकृत्तस्य राज्ये यस्य कृतं युगम्।
परोक्षमप्यतिप्रीत्या वर्तमानमभूदिव॥५॥

यतो निर्याय सत्कीर्तिर्भूयसी परितो दिशः।
दूराद्ध श्रमतप्तेव पस्पर्शाम्भो महोदधेः॥६॥

तेन राज्ञा कृतज्ञत्वात् सम्पद्भिर्यो यतीश्वरः।
सौवर्णभस्मपात्राक्षमालाद्याभिस्सुसत्कृतः॥७॥

परार्घ्यमासनं पद्मदलकेसरप‡िमत्।
यतीनामाधिपत्येन योऽध्यास्ते स्म नृपाज्ञया॥८॥

शैवज्योतिषशब्दार्थवादिशास्त्रार्थवादिना।
येनात्मान्तर्न्निगूढोऽपि योगेन ददृशे शिवे॥९॥

श्रीन्द्रवर्मनियुक्तो य उत्तरेन्द्राश्रमाधिपः।
तोयं विज्ञापयामास दुर्लभं भोग्यमाश्रमे॥१०॥

इति विज्ञापितो येन श्रीन्द्रवार्मावनीश्वरः।
तटाकं कारयामास नरैर्विषयवासिभिः॥११॥

तटाके खाद्यमाने यत् सौवर्णगुरुमण्डलम्।
पूर्वोपनिहितं भूमावुद्धृतं खननीधरैः॥१२॥

येनेदं प्रतिमायै तच्छम्भोर्भवतु भूपते।
राज्ञो विज्ञापितस्येति साधुवाच्यनुकूल्यता॥१३॥

शाम्भवी प्रतिमायेयं सौवर्णी शिबिकास्थिता।
नीयतेऽद्यापि यस्तस्या निमित्तमभवत् किल॥१४॥

श्रीयशोवर्मणा पश्चात् स्वाश्रमेऽधिकृतः पुनः।
य आचार्याधिपत्येन लब्धवान् प्रवरासनम्॥१५॥

यद्यशो हारकल्हारनीहाराकृतिकान्तिमत्।
निष्कलङ्कं कलावन्तं कलङ्काङ्कमिवाहसत्॥१६॥

प्राणिप्राणपरित्राणप्रधानपरिमाणतः।
यो रागी वीतरागोऽपि शिवत्वैकत्ववेदितः॥१७॥

स एवामरभावाख्यो यतीनां प्रवरो गुणैः।
शालामकॄत देवस्य दक्षिणोपत्यकातले॥१८॥

Leave a Reply

Your email address will not be published. Required fields are marked *